Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
सप्तमोऽध्यायः । --

२२७

</ignore>

नासौ योगमाया' मदीया सती मम ईश्वरस्य मायाविनो ज्ञानं

प्रतिबध्नाति यथा अन्यस्यापि मायाविनः मायाज्ञानं तद्वत् ॥

यतः एवम्, अतः -

<verse>
वेदाहं समतीतानि वर्तमानानि चार्जुन ।

भविष्याणि च भूतानि मां तु वेद न कश्चन ॥

<fix> २६ ॥</fix></verse>

अहं तु वेद जाने समतीतानि समतिक्रान्तानि भूतानि,

वर्तमानानि च अर्जुन, भविष्याणि च भूतानि वेद अहम् ।

तु वेद न कश्चन मद्भक्तं मच्छरणम् एकं मुक्त्वा ; मत्त-

त्त्ववेदनाभावादेव न माँमां भजते ॥

मां

केन पुनः मत्तत्त्ववेदनप्रतिबन्धेन प्रतिबद्धानि सन्ति

जायमानानि सर्वभूतानि मां न विदन्ति इत्यपेक्षायामि-

दमाह–

<verse>
इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत ।

सर्वभूतानि संमोहं सर्गे यान्ति परंतप ॥ २७ ॥
</verse>

इच्छाद्वेषसमुत्थेन इच्छा च द्वेषश्च इच्छाद्वेषौ ताभ्यां

समुत्तिष्ठतीति इच्छाद्वेषसमुत्थः तेन इच्छाद्वेषसमुत्थेन । केनेति

विशेषापेक्षायामिदमाह — द्वन्द्वमोहेन द्वन्द्वनिमित्तः मोह:
हः
द्वन्द्वमोहः तेन । तावेव इच्छाद्वेषौ शीतोष्णवत् परस्परविरुद्धौ

</page>