Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२२६

श्रीमद्भगवद्गीताभाष्ये

</ignore>

किंनिमित्तं मामेव न प्रपद्यन्ते इत्युच्यते-

<verse>
अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः ।

परं भावमजानन्तो ममाव्ययमनुत्तमम् ॥ २४ ॥

</verse>

अव्यक्तम् अप्रकाशं व्यक्तिम् आपन्नं प्रकाशं गतम्

इदानीं मन्यन्ते मां नित्यप्रसिद्धमीश्वरमपि सन्तम् अबुद्धयः-

अविवेकिनः परं भावं परमात्मस्वरूपम् अजानन्तः अविवे-

किनः मम अव्ययं व्ययरहितम् अनुत्तमं निरतिशयं मदीयं

भावमजानन्तः मन्यन्ते इत्यर्थः ॥

तदज्ञानं किंनिमित्तमित्युच्यते--

<verse>
नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।

मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥

</verse>

न अहं प्रकाशः सर्वस्य लोकस्य, केषांचिदेव मद्भक्तानां

प्रकाशः अहमित्यभिप्रायः । योगमायासमावृतः योग:गः गुणानां

युक्तिः घटनं सैव माया योगमाया, तया योगमायया समा-

वृत:तः, संछन्नः इत्यर्थः । अत एव मूढो लोकः अयं न अभि-

जानाति माम् अजम् अव्ययम् ॥

यया योगमायया समावृतं मां लोकः नाभिजानाति,

</page>