2026-05-04 02:01:14 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२२४
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<p>कामैः तैस्तैः पुत्रपशुस्वर्गादिविषयैः हृतज्ञानाः अपहृतवि-
वेकविज्ञानाः प्रपद्यन्ते अन्यदेवताः प्राप्नुवन्ति वासुदेवात्
आत्मनः अन्याः देवता; तं तं नियमं देवताराधने प्रसिद्धो
यो यो नियमः तं तम् आस्थाय आश्रित्य प्रकृत्या स्वभावेन
जन्मान्तरार्जितसंस्कारविशेषेण नियताः नियमिताः स्वया
आत्मीयया ॥
</p>
<p>तेषां च कामिनाम् —
</p>
<verse>यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तखा
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥
<fix> २१ ॥</fix></verse>
<p>यः यः कामी यां यां देवतातनुं श्रद्धया संयुक्तः भक्तश्च
सन् अर्चितुं पूजयितुम् इच्छति, तस्य तस्य कामिनः
अचलां स्थिरां श्रद्धां तामेव विदधामि स्थिरीकरोमि ॥
</p>
<p>ययैवं पूर्ववं प्रवृत्तः स्वभावतो यः यां देवतातनुं श्रद्धया
अर्चितुम् इच्छति—
</p>
<verse>स तया श्रद्धया युक्त-
स्तथा राधनमीहते ।
लभते च ततः कामा-
न्मयैव विहितान्हि तान् ॥ २२ ॥
</verse>
</page>

<p>ययैवं पूर्
अर्चितुम् इच्छति—
<verse>स तया श्रद्धया युक्त-
स्तथा राधनमीहते ।
लभते च ततः कामा-
न्मयैव विहितान्हि तान् ॥ २२ ॥
</page>