2026-05-04 02:06:27 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>सप्तमोऽध्यायः ।
२१९
</ignore>
<p>असंसन्निकृष्टेषु विषयेषु, रागो रञ्जना प्राप्तेषु विषयेषु --
-
ताभ्यां कामरागाभ्यां विवर्जितं देहादिधारणमात्रार्थं बलं
सत्त्वमहमस्मि ; न तु यत्संसारिणां तृष्णारागकारणम् ।
किंच— धर्माविरुद्धः धर्मेण शास्त्रार्थेन अविरुद्धो यः प्राणिषु
भूतेषु कामः, यथा देहधारणमात्राद्यर्थः अशनपानादिवि-
षयः, स कामः अस्मि हे भरतर्षभ ॥
</p>
<p>किंच—
</p>
<verse>ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥
<fix> १२ ॥</fix></verse>
<p>ये चैव सात्त्विकाः सत्त्वनिर्वृत्ताः भावा:वाः पदार्थाः,
राजसाः रजोनिर्वृत्ताः, तामसाः तमोनिर्वृत्ताश्च ये केचित्
प्राणिनां स्वकर्मवशात् जायन्ते भात्राःवाः, तान् मत्त एव जाय-
मानान् इति एवं विद्धि सर्वान् समस्तानेव । यद्यपि
मत्तः जायन्ते, तथापि न तु अहं तेषु तदधीनः तद्वशः,
यथा संसारिणः । ते पुनः मयि मद्वशाः मदधीनाः ॥
</p>
<p merge-next="true">एवंभूतमपि परमेश्वरं नित्यशुद्धबुद्धमुक्तस्वभावं सर्वभू-
तात्मानं निर्गुणं संसारदोषबीजप्रदाहकारणं मां नाभिजानाति
</p>
</page>
<ignore>सप्तमोऽध्यायः ।
<p>अ
ताभ्यां कामरागाभ्यां विवर्जितं देहादिधारणमात्रार्थं बलं
सत्त्वमहमस्मि ; न तु यत्संसारिणां तृष्णारागकारणम् ।
किंच— धर्माविरुद्धः धर्मेण शास्त्रार्थेन अविरुद्धो यः प्राणिषु
भूतेषु कामः, यथा देहधारणमात्राद्यर्थः अशनपानादिवि-
षयः, स कामः अस्मि हे भरतर्षभ ॥
<p>किंच—
<verse>ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥
<p>ये चैव सात्त्विकाः सत्त्वनिर्वृत्ताः भा
राजसाः रजोनिर्वृत्ताः, तामसाः तमोनिर्वृत्ताश्च ये केचित्
प्राणिनां स्वकर्मवशात् जायन्ते भा