2026-05-03 04:20:41 by ambuda-bot
This page has not been fully proofread.
सप्तमोऽध्यायः ।
२१९
असंनिकृष्टेषु विषयेषु, रागो रञ्जना प्राप्तेषु विषयेषु --
ताभ्यां कामरागाभ्यां विवर्जितं देहादिधारणमात्रार्थं बलं
सत्त्वमहमस्मि ; न तु यत्संसारिणां तृष्णारागकारणम् ।
किंच— धर्माविरुद्धः धर्मेण शास्त्रार्थेन अविरुद्धो यः प्राणिषु
भूतेषु कामः, यथा देहधारणमात्राद्यर्थः अशनपानादिवि-
षयः, स कामः अस्मि हे भरतर्षभ ॥
किंच—
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये ।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ॥
ये चैव सात्त्विकाः सत्त्वनिर्वृत्ताः भावा: पदार्थाः,
राजसाः रजोनिर्वृत्ताः, तामसाः तमोनिर्वृत्ताश्च ये केचित्
प्राणिनां स्वकर्मवशात् जायन्ते भात्राः, तान् मत्त एव जाय-
मानान् इति एवं विद्धि सर्वान् समस्तानेव । यद्यपि
मत्तः जायन्ते, तथापि न तु अहं तेषु तदधीनः तद्वशः,
यथा संसारिणः । ते पुनः मयि मद्वशाः मदधीनाः ॥
एवंभूतमपि परमेश्वरं नित्यशुद्धबुद्धमुक्तस्वभावं सर्वभू-
तात्मानं निर्गुणं संसारदोषबीजप्रदाहकारणं मां नाभिजानाति