Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
सप्तमोऽध्यायः ।
 
२१७
 
</ignore>
<p>
यस्मादेवं तस्मात् मयि परमेश्वरे सर्वाणि भूतानि सर्वमिदं

जगत् प्रोतं अनुस्यूतम् अनुगतम् अनुविद्धं प्रथितमित्यर्थ.,
थः,
दीर्घतन्तुषु पटवत्, सूत्रे च मणिगणा इव ॥
 
</p>
<p>
केन केन धर्मेण विशिष्टे त्वयि सर्वमिदं प्रोतमित्युच्यते-
—</p>
<verse>
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः ।

प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ॥ ८ ॥
 
रस:
</verse>
<p>रसः
अहम्, अपां य:यः सारः सरसः, तस्मिन् रसभूते

मयि आपः प्रोता इत्यर्थः । एवं सर्वत्र । यथा अहम् अप्सु

रसः, एवं प्रभा अस्मि शशिसूर्ययोः । प्रणवः ओंकारः सर्व-

वेदेषु, तस्मिन् प्रणवभूते मयि सर्वे वेदाः प्रोताः । तथा खे

आकाशे शब्दः सारभूतः, तस्मिन् मयि खं प्रोतम् । तथा

पौरुषं पुरुषस्य भावः पौरुषं यतः पुंबुद्धिः नृषु, तस्मिन्

मयि पुरुषाः प्रोताः ॥
 
</p>
<verse>
पुण्यो गन्धः पृथिव्यां च
 

तेजश्वाचास्मि विभावसौ ।
 

जीवनं सर्वभूतेषु
 

तपश्चास्मि तपखिस्विषु ॥ ९ ॥
 
</verse>
</page>