2026-05-04 02:10:19 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२१६
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<p>अपरा न परा निकृष्टा अशुद्धा अनर्थकरी संसारबन्धना-
त्मिका इयम् । इतः अस्याः यथोक्तायाः तु अन्यां विशुद्धां
प्रकृतिं मम आत्मभूतां विद्धि मे परां प्रकृष्टां जीवभूतां क्षेत्र-
ज्ञलक्षणां प्राणधारणनिमित्तभूतां हे महाबाहो, यया प्रकृत्या
इदं धार्यते जगत् अन्तः प्रविष्टया ॥
</p>
<verse>एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ६॥
</verse>
<p>एतद्योनीनि एते परापरे क्षेत्रक्षेत्रज्ञलक्षणे प्रकृती योनिः
येषां भूतानां तानि एतद्योनीनि भूतानि सर्वाणि इति एवम्
उपधारय जानीहि । यस्मात् मम प्रकृती योनिः कारणं
सर्वभूतानाम्, अत:तः अहं कृत्स्नस्य समस्तस्य जगतः प्रभवः
उत्पत्तिः प्रलय:यः विनाशः तथा । प्रकृतिद्वयद्वारेण अहं सर्वज्ञः
ईश्वरः जगतः कारणमित्यर्थः ॥
</p>
<p>यतः तस्मात्—
,
</p>
<verse>मत्तः परतरं नान्यत्किंचिदस्ति धनंजय ।
माय
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ॥ ७ ॥
</verse>
<p merge-next="true">मत्तः परमेश्वरात् परतरम् अन्यत् कारणान्तरं किंचित्
नास्ति न विद्यते, अहमेव जगत्कारणमित्यर्थः, हे धनंजय ।
</p>
</page>
<ignore>२१६
<p>अपरा न परा निकृष्टा अशुद्धा अनर्थकरी संसारबन्धना-
त्मिका इयम् । इतः अस्याः यथोक्तायाः तु अन्यां विशुद्धां
प्रकृतिं मम आत्मभूतां विद्धि मे परां प्रकृष्टां जीवभूतां क्षेत्र-
ज्ञलक्षणां प्राणधारणनिमित्तभूतां हे महाबाहो, यया प्रकृत्या
इदं धार्यते जगत् अन्तः प्रविष्टया ॥
<verse>एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ६॥
<p>एतद्योनीनि एते परापरे क्षेत्रक्षेत्रज्ञलक्षणे प्रकृती योनिः
येषां भूतानां तानि एतद्योनीनि भूतानि सर्वाणि इति एवम्
उपधारय जानीहि । यस्मात् मम प्रकृती योनिः कारणं
सर्वभूतानाम्, अ
उत्पत्तिः प्रल