Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
सप्तमोऽध्यायः
 
२१५
 
</ignore>
<p>
करोति सिद्धये सिद्धयर्थम् । तेषां यततामपि सिद्धानाम्,

सिद्धा एव हि ते ये मोक्षाय यतन्ते, तेषां कश्चित् एव हि मां

वेत्ति तत्त्वत:तः यथावत् ॥
 
</p>
<p>
श्रोतारं प्ररोचनेन अभिमुखीकृत्याह -
 
—</p>
<verse>
भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।

अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ४ ॥
 
</verse>
<p>
भूमि:मिः इति पृथिवीतन्मात्रमुच्यते, न स्थूला, '&apos;भिन्ना

प्रकृतिरष्टधा'&apos; इति वचनात् । तथा अबादयोऽपि तन्मात्रा-

ण्येव उच्यन्ते — आपः अनल:लः वायुः खम् । मनः इति

मनसः कारणमहंकारो गृह्यते । बुद्धिः इति अहंकारकारणं

महत्तत्त्वम् । अहंकारः इति अविद्यासंयुक्तमव्यक्तम् ।

यथा विषसंयुक्तमन्नं विषमित्युच्यते, एवमहंकारवासनावत्

अव्यक्तं मूलकारणमहंकार इत्युच्यते, प्रवर्तकत्वात् अहंका-

रस्य । अहंकार एव हि सर्वस्य प्रवृत्तिबीजं दृष्टं लोके ।

इतीयं यथोक्ता प्रकृतिः मे मम ऐश्वरी मायाशक्तिः अष्टधा

भिन्ना भेदमागता ॥
 
</p>
<verse>
अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् ।

जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ ५ ॥
 
</verse>
</page>