Proofing

This page has been fully proofread once and needs a second look.

"
 
<page>
<heading>
सप्तमोऽध्यायः ॥
 
यो
</heading>
<p><quote>&apos;यो
गिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धा-
 

वान्भजते यो मां स मे युक्ततमो मतः'&apos;</quote> इति

प्रश्नबीजम् उपन्यस्य, स्वयमेव '&apos;ईदृशं मदीयं
 

तत्त्वम्, एवं मद्गतान्तरात्मा स्यात्'&apos; इत्येतत्
 

विवक्षुः श्रीभगवानुवाच-
 
—</p>
<verse>
श्रीभगवानुवाच-
 

मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः ।

असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ॥
 
<fix> १ ॥</fix></verse>
<p merge-next="true">
मयि वक्ष्यमाणविशेषणे परमेश्वरे आसक्तं मनः यस्य सः

मय्यासक्तमनाः, हे पार्थ योगं युञ्जन् मनःसमाधानं कुर्वन्,

मदाश्रयः अहमेव परमेश्वरः आश्रयो यस्य सः मदाश्रयः । यो

हि कश्चित् पुरुषार्थेन केनचित् अर्थी भवति स तत्साधनं

कर्म अग्निहोत्रादि तपः दानं वा किंचित् आश्रयं प्रतिपद्यते,

अयं तु योगी मामेव आश्रयं प्रतिपद्यते, हित्वा अन्यत् सा-
 
</p>
</page>