Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२१०
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
तपस्विभ्यः अधिकः योगी, ज्ञानिभ्योऽपि ज्ञानमत्र

शास्त्रार्थपाण्डित्यम्, तद्वद्भथोभ्योऽपि मतः ज्ञातः अधिकः श्रेष्ठः

इति । कर्मिभ्यः, अग्निहोत्रादि कर्म, तद्वद्भयः अधिक:कः योगी

विशिष्टः यस्मात् तस्मात् योगी भव अर्जुन ॥
 
</p>
<verse>
योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।

श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥
<fix> ४७ ॥</fix></verse>
<trailer>
इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यां

भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां

योगशास्त्रे श्रीकृष्णार्जुनसंवादे ध्यानयोगो नाम

षष्ठोऽध्यायः ॥
 
</trailer>
<p>
योगिनामपि सर्वेषां रुद्रादित्यादिध्यानपराणां मध्ये मद्गतेन

मयि वासुदेवे समाहितेन अन्तरात्मना अन्तःकरणेन श्रद्धावान्

श्रद्दधानः सन् भजते सेवते यो माम्, स मे मम युक्ततमः

अतिशयेन युक्तः मतः अभिप्रेतः इति ॥

 
</p>
<trailer>
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपाद-

शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये

षष्ठोऽध्यायः ॥
 
</trailer>
</page>