Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२०८
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
तरं पूर्वमपेक्ष्य लोके जन्म यत् ईदृशं यथोक्तविशेषणे कुले ॥
 
</p>
<p>
यस्मात् --
 
-</p>
<verse>
तत्र तं वुबुद्धिसंयोगं लभते पौर्वदेहिकम् ।

यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ ४३ ॥
 
</verse>
<verse>
तत्र योगिनां कुले तं बुद्धिसंयोगं बुद्धया संयोगं बुद्धि-

संयोगं लभते पौर्वदेहिकं पूर्वस्मिन् देहे भवं पौर्वदेद्दिहिकम् ।

यतते च प्रयत्नं च करोति ततः तस्मात् पूर्वकृतात् संस्का-

रात् भूयः बहुतरं संसिद्धौ संसिद्धिनिमित्तं हे कुरुनन्दन ॥
</verse>
<p>
कथं पूर्वदेहबुद्धिसंयोग इति तदुच्यते-
—</p>
<verse>
पूर्वाभ्यासेन तेनैव हियते ह्यवशोऽपि सः ।

जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ४४ ॥
 
</verse>
<p>
यः पूर्वजन्मनि कृतः अभ्यासः सः पूर्वाभ्यासः, तेनैव

बलवता हियते संसिद्धौ हि यस्मात् अवशोऽपि सः योग-

भ्रष्टः ; न कृतं चेत् योगाभ्यासजात् संस्कारात् बलवत्तर-

मधर्मादिलक्षणं कर्म, तदा योगाभ्यासजनितेन संस्कारेण

ह्रियते ; अधर्मश्चेत् बलवत्तरः कृतः, तेन योगजोऽपि संस्कारः

अभिभूयत एव, तत्क्षये तु योगजः संस्कार:रः स्वयमेव कार्य-

मारभते, न दीर्घकालस्थस्यापि विनाशः तत्र अस्ति इत्यर्थः ।
 
</p>
</page>