2026-05-03 04:20:35 by ambuda-bot
This page has not been fully proofread.
२०८
श्रीमद्भगवद्गीताभाष्ये
तरं पूर्वमपेक्ष्य लोके जन्म यत् ईदृशं यथोक्तविशेषणे कुले ॥
यस्मात् --
तत्र तं वुद्धिसंयोगं लभते पौर्वदेहिकम् ।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन ॥ ४३ ॥
तत्र योगिनां कुले तं बुद्धिसंयोगं बुद्धया संयोगं बुद्धि-
संयोगं लभते पौर्वदेहिकं पूर्वस्मिन् देहे भवं पौर्वदेद्दिकम् ।
यतते च प्रयत्नं च करोति ततः तस्मात् पूर्वकृतात् संस्का-
रात् भूयः बहुतरं संसिद्धौ संसिद्धिनिमित्तं हे कुरुनन्दन ॥
कथं पूर्वदेहबुद्धिसंयोग इति तदुच्यते-
पूर्वाभ्यासेन तेनैव हियते ह्यवशोऽपि सः ।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ॥ ४४ ॥
यः पूर्वजन्मनि कृतः अभ्यासः सः पूर्वाभ्यासः, तेनैव
बलवता हियते संसिद्धौ हि यस्मात् अवशोऽपि सः योग-
भ्रष्टः ; न कृतं चेत् योगाभ्यासजात् संस्कारात् बलवत्तर-
मधर्मादिलक्षणं कर्म, तदा योगाभ्यासजनितेन संस्कारेण
ह्रियते ; अधर्मश्चेत् बलवत्तरः कृतः, तेन योगजोऽपि संस्कारः
अभिभूयत एव, तत्क्षये तु योगजः संस्कार: स्वयमेव कार्य-
मारभते, न दीर्घकालस्थस्यापि विनाशः तत्र अस्ति इत्यर्थः ।