2026-05-03 04:20:35 by ambuda-bot
This page has not been fully proofread.
षष्ठोऽध्यायः ।
२०७
स योगभ्रष्टस्य नास्ति । न हि यस्मात् कल्याणकृत् शुभकृत्
कश्चित् दुर्गतिं कुत्सितां गतिं हे तात, तनोति आत्मानं पुत्र-
1
रूपेणेति पिता तात उच्यते । पितैव पुत्र इति पुत्रोऽपि तात
उच्यते । शिष्योऽपि पुत्र उच्यते । यतो न गच्छति ॥
किं तु अस्य भवति ? -
प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।
शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥
योगमार्गे प्रवृत्तः संन्यासी सामर्थ्यात् प्राप्य गत्वा पुण्य-
कृताम् अश्वमेधादियाजिनां लोकान्, तत्र च उषित्वा वासम-
नुभूय शाश्वतीः नित्याः समाः संवत्सरान् तद्भोगक्षये
शुचीनां यथोक्तकारिणां श्रीमतां विभूतिमतां गेहे गृहे योग-
भ्रष्टः अभिजायते ॥
"
अथवा योगिनामेव कुले भवति धीमताम् ।
एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ॥ ४२ ॥
अथवा श्रीमतां कुलात् अन्यस्मिन् योगिनामेव. दरि-
द्राणां कुले भवति जायते धीमतां बुद्धिमताम् । एतत् हि
जन्म, यत् दरिद्राणां योगिनां कुले, दुर्लभतरं दुःखलभ्य-