Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
२०४
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
केनचित् नियन्तुं शक्यम्, दुर्निवारत्वात् । किंच दृढं त-

न्तुनागवत् अच्छेद्यम् । तस्य एवंभूतस्य मनसः अहं निग्रहं

निरोधं मन्ये वायोरिव यथा वायोः दुष्करो निग्रहः ततोऽपि

दुष्करं मन्ये इत्यभिप्राय:यः
 
</p>
<p>
श्रीभगवानुवाच एवम् एतत् यथा ब्रवीषि —
 
"
 
</p>
<verse>
श्रीभगवानुवाच-
 
--
असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।

अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ॥
 
<fix> ३५ ॥</fix></verse>
<p>
असंशयं नास्ति संशय: ' यः <quote>&apos;मनो दुर्निग्रहं चलम्'&apos;</quote> इत्यत्र

हे महाबाहो । किंतु अभ्यासेन तु अभ्यासो नाम चित्तभूमौ

कस्यांचित् समानप्रत्ययावृत्तिः चित्तस्य । वैराग्येण वैराग्यं

नाम दृष्टादृष्टेष्टभोगेषु दोषदर्शनाभ्यासात् वैतृष्ण्यम् । तेन

च वैराग्येण गृह्यते विक्षेपरूपः प्रचारः चित्तस्य । एवं तत्

मनः गृह्यते निगृह्यते निरुध्यते इत्यर्थः ॥
 
</p>
<p>
यः पुनः असंयतात्मा, तेन-
 
,
 
--</p>
<verse>
असंयतात्मना योगो दुष्प्राप इति मे मतिः ।

श्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ॥
 
<fix> ३६ ॥</fix></verse>
</page>