2026-05-04 02:28:01 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>२००
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<p>तं प्रशान्तमनसं हि एनं योगिनं सुखम् उत्तमं निरतिशयम्
उपैति उपगच्छति शान्तरजसं प्रक्षीणमोहादिक्लेशरजसमि-
त्यर्थः, ब्रह्मभूतं जीवन्मुक्तम्''ब्रह्मैव सर्वम्'' इत्येवं निश्चय-
वन्तं ब्रह्मभूतम् अकल्मषं धर्माधर्मादिवर्जितम् ॥
</p>
<verse>युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ।
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ २८ ॥
</verse>
<p>युञ्जन् एवं यथोक्तेन क्रमेण योगी योगान्तरायवर्जितः
सदा सर्वदा आत्मानं विगतकल्मषः विगतपापः, सुखेन
अनायासेन ब्रह्मसंस्पर्शशं ब्रह्मणा परेण संस्पर्शो यस्य तत्
ब्रह्मसंस्पर्शं सुखम् अत्यन्तम् अन्तमतीत्य वर्तत इत्यत्यन्तम्
उत्कृष्टं निरतिशयम् अश्नुते व्याप्नोति ॥
</p>
<p>इदानीं योगस्य यत् फलं ब्रह्मैकत्वदर्शनं सर्वसंसारवि-
च्छेदकारणं तत् प्रदर्श्यते-
--</p>
<verse>सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ २९ ॥
</verse>
<p merge-next="true">सर्वभूतस्थं सर्वेषु भूतेषु स्थितं स्वम् आत्मानं सर्वभू-
तानि च आत्मनि ब्रह्मादीनि स्तम्बपर्यन्तानि च सर्वभूतानि
</p>
</page>
<ignore>२००
<p>तं प्रशान्तमनसं हि एनं योगिनं सुखम् उत्तमं निरतिशयम्
उपैति उपगच्छति शान्तरजसं प्रक्षीणमोहादिक्लेशरजसमि-
त्यर्थः, ब्रह्मभूतं जीवन्मुक्तम्
वन्तं ब्रह्मभूतम् अकल्मषं धर्माधर्मादिवर्जितम् ॥
<verse>युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः ।
सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ॥ २८ ॥
<p>युञ्जन् एवं यथोक्तेन क्रमेण योगी योगान्तरायवर्जितः
सदा सर्वदा आत्मानं विगतकल्मषः विगतपापः, सुखेन
अनायासेन ब्रह्मसंस्पर्