2026-05-05 03:59:09 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>षष्ठोऽध्यायः ।
१९९
</ignore>
<p>धृतिगृहीतया धैर्येण युक्तया इत्यर्थः । आत्मसंस्थम् आत्मनि
संस्थितम् 'आत्मैव सर्वे न ततोऽन्यत् किंचिदस्ति' इत्येव-
मात्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् । एष योगस्य
परमो विधिः ।
</p>
<p>तत्र एवमात्मसंस्थं मनः कर्तुं प्रवृत्तो योगी --
</p>
<verse>यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २६॥
</verse>
<p>यतो यतः यस्माद्यस्मात् निमित्तात् शब्दादेः निश्वचरति
निर्गच्छति स्वभावदोषात् मनः चञ्चलम् अत्यर्थ चलम्, अत
एव अस्थिरम्, ततस्ततः तस्मात्तस्मात् शब्दादेः निमित्तात्
नियम्य तत्तन्निमित्तं याथात्म्यनिरूपणेन आभासीकृत्य वैरा-
ग्यभावनया च एतत् मनः आत्मन्येव वशं नयेत् आत्म-
वश्यतामापादयेत् । एवं योगाभ्यासबलात् योगिनः आत्म-
न्येव प्रशाम्यति मनः ॥ .
</p>
<verse>प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥
</verse>
<p merge-next="true">प्रशान्तमनसं प्रकर्षेण शान्तं मनः यस्य सः प्रशान्तमनाः
</p>
</page>
<ignore>षष्ठोऽध्यायः ।
<p>धृतिगृहीतया धैर्येण युक्तया इत्यर्थः । आत्मसंस्थम् आत्मनि
संस्थितम् 'आत्मैव सर्वे न ततोऽन्यत् किंचिदस्ति' इत्येव-
मात्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् । एष योगस्य
परमो विधिः ।
<p>तत्र एवमात्मसंस्थं मनः कर्तुं प्रवृत्तो योगी --
<verse>यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २६॥
<p>यतो यतः यस्माद्यस्मात् निमित्तात् शब्दादेः निश्
निर्गच्छति स्वभावदोषात् मनः चञ्चलम् अत्यर्थ चलम्, अत
एव अस्थिरम्, ततस्ततः तस्मात्तस्मात् शब्दादेः निमित्तात्
नियम्य तत्तन्निमित्तं याथात्म्यनिरूपणेन आभासीकृत्य वैरा-
ग्यभावनया च एतत् मनः आत्मन्येव वशं नयेत् आत्म-
वश्यतामापादयेत् । एवं योगाभ्यासबलात् योगिनः आत्म-
न्येव प्रशाम्यति मनः ॥