2026-05-03 04:20:32 by ambuda-bot
This page has not been fully proofread.
षष्ठोऽध्यायः ।
१९९
धृतिगृहीतया धैर्येण युक्तया इत्यर्थः । आत्मसंस्थम् आत्मनि
संस्थितम् 'आत्मैव सर्वे न ततोऽन्यत् किंचिदस्ति' इत्येव-
मात्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् । एष योगस्य
परमो विधिः ।
तत्र एवमात्मसंस्थं मनः कर्तुं प्रवृत्तो योगी--
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ २६॥
यतो यतः यस्माद्यस्मात् निमित्तात् शब्दादेः निश्वरति
निर्गच्छति स्वभावदोषात् मनः चञ्चलम् अत्यर्थ चलम्, अत
एव अस्थिरम्, ततस्ततः तस्मात्तस्मात् शब्दादेः निमित्तात्
नियम्य तत्तन्निमित्तं याथात्म्यनिरूपणेन आभासीकृत्य वैरा-
ग्यभावनया च एतत् मनः आत्मन्येव वशं नयेत् आत्म-
वश्यतामापादयेत् । एवं योगाभ्यासबलात् योगिनः आत्म-
न्येव प्रशाम्यति मनः ॥ .
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ।
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥
प्रशान्तमनसं प्रकर्षेण शान्तं मनः यस्य सः प्रशान्तमनाः