Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१९६

श्रीमद्भगवद्गीताभाष्ये

</ignore>

इत्युपमा योगज्ञैः चित्तप्रचारदर्शिभिः स्मृता चिन्तिता

योगिनो यतचित्तस्य संयतान्तःकरणस्य युञ्जतो योगम् अनु-

तिष्ठतः आत्मनः समाधिमनुतिष्ठत इत्यर्थः ॥

एवं योगाभ्यासबलादेकाग्रीभूतं निवातप्रदीपकल्पं सत्-

<verse>
यत्रोपरमते चित्तं निरुद्धं योगसेवया ।

यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ॥

<fix> २० ॥</fix></verse>

यत्र यस्मिन् काले उपरमते चित्तम् उपरतिं गच्छति

निरुद्धं सर्वतो निवारितप्रचारं योगसेवया योगानुष्ठानेन,

यत्र चैव यस्मिंश्च काले आत्मना समाधिपरिशुद्धेन अन्तःक-

रणेन आत्मानं परं चैतन्यं ज्योतिःस्वरूपं पश्यन् उपलभ-

मानः स्वे एव आत्मनि तुष्यति तुष्टिं भजते ॥

किंच--

<verse>
सुखमात्यन्तिकं यत्तद्वुद्धिग्राह्यमतीन्द्रियम् ।

वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ॥

<fix> २१ ॥</fix></verse>

सुखम् आत्यन्तिकं अत्यन्तमेव भवति इत्यात्यन्तिकम् अ-

नन्तमित्यर्थः, यत् तत् बुद्धिप्ग्राह्यं बुद्धधैध्यैव इन्द्रियनिरपेक्षया

गृह्यते इति बुद्धिप्ग्राह्यम् अतीन्द्रियम् इन्द्रियगोचरातीतम्

</page>