2026-05-05 04:01:32 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>षष्ठोऽध्यायः ।
१९५
</ignore>

बोधश्वच तौ नियतकालौ यस्य तस्य, युक्ताहारविहारस्य युक्त-
चेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगिनो योगो भवति
दुःखहा दुःखानि सर्वाणि हन्तीति दुःखहा, सर्वसंसारदुःख-
क्षयकृत् योगः भवतीत्यर्थः ॥

अथ अधुना कदा युक्तो भवति इत्युच्यते-

<verse>यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥
<fix> १८ ॥</fix></verse>

यदा विनियतं विशेषेण नियतं संयतम् एकाग्रतामापन्नं
चित्तं हित्वा बाह्यार्थचिन्ताम् आत्मन्येव केवले अवतिष्ठते,
स्वात्मनि स्थितिं लभते इत्यर्थः । निःस्पृहः सर्वकामेभ्यः
निर्गता दृष्टादृष्टविषयेभ्यः स्पृहा तृष्णा यस्य योगिनःमः
सः
युक्तः समाहितः इत्युच्यते तदा तस्मिन्काले ॥

तस्य योगिनः समाहितं यत् चित्तं तस्योपमा उच्यते-

<verse>यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता ।
योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ॥ १९॥
</verse>

यथा दीपः प्रदीपः निवातस्थः निवाते वातवर्जिते देशे
स्थितः न इङ्गते न चलति, सा उपमा उपमीयते अनया

</page>
<ignore>षष्ठोऽध्यायः ।

बोधश्
चेष्टस्य कर्मसु युक्तस्वप्नावबोधस्य योगिनो योगो भवति
दुःखहा दुःखानि सर्वाणि हन्तीति दुःखहा, सर्वसंसारदुःख-
क्षयकृत् योगः भवतीत्यर्थः ॥

अथ अधुना कदा युक्तो भवति इत्युच्यते
<verse>यदा विनियतं चित्तमात्मन्येवावतिष्ठते ।
निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ॥

यदा विनियतं विशेषेण नियतं संयतम् एकाग्रतामापन्नं
चित्तं हित्वा बाह्यार्थचिन्ताम् आत्मन्येव केवले अवतिष्ठते,
स्वात्मनि स्थितिं लभते इत्यर्थः । निःस्पृहः सर्वकामेभ्यः
निर्गता दृष्टादृष्टविषयेभ्यः स्पृहा तृष्णा यस्य योगिनः
युक्तः समाहितः इत्युच्यते तदा तस्मिन्काले ॥

तस्य योगिनः समाहितं यत् चित्तं तस्योपमा उच्यते