Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१९४
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
न अत्यश्नतः आत्मसंमितमन्नपरिमाणमतीत्याश्नतः अत्यश्न-

तः न योगः अस्ति । न च एकान्तम् अनश्नतः योगः अस्ति ।
'

<quote>&apos;
यदु ह वा आत्मसंमितमन्नं तदवति तन्न हिनस्ति यद्भूयो

हिनस्ति तद्यत् कनीयोऽन्नं न तदवति'&apos;</quote> इति श्रुतेः । तस्मात्

योगी न आत्मसंमितात् अन्नात् अधिकं न्यूनं वा अभीश्नीयात् ।

अथवा, योगिनः योगशास्त्रे परिपठितात् अन्नपरिमाणात्

अतिमान्नत्रमश्नतः योगो नास्ति । उक्तं हि - '&apos;अर्धं सव्य-

ञ्जनान्नस्य तृतीयमुदकस्य च । वायोः संचरणार्थे तु चतुर्थम-

वशेषयेत्'&apos; इत्यादिपरिमाणम् । तथा— न च अतिस्वप्न-

शीलस्य योगो भवति नैव च अतिमात्रं जाग्रतो भवति

च अर्जुन ॥
 
</p>
<p>
कथं पुनः योगो भवति इत्युच्यते-
 
—</p>
<verse>
युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वभा

युक्तस्वप्ना
वबोधस्य योगो भवति दुःखहा ॥ १७॥
 
</verse>
<p merge-next="true">
युक्ताहारविहारस्य आह्नियते इति आहार:रः अन्नम्, विह-

रणं विहार:रः पादक्रमः, तौ युक्तौ नियतपरिमाणौ यस्य सः

युक्ताहारविहारः तस्य, तथा युक्तचेष्टस्य युक्ता नियता चेष्टा

यस्य कर्मसु तस्य, तथा युक्तस्वप्नावबोधस्य युक्तौ स्वप्नश्च अव-
 
</p>
</page>