Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
षष्ठोऽध्यायः ।
 
१९३
 
</ignore>
<p>
मयि परमेश्वरे चित्तं यस्य सोऽयं मञ्च्चित्तः, युक्तः समाहितः

सन् आसीत उपविशेत् । मत्परः अहं परो यस्य सोऽयं

मत्परो भवति । कश्चित् रागी स्त्रीचित्तः, न तु स्त्रियमेव

परत्वेन गृह्णाति ; किं तर्हि ? राजानं महादेवं वांवा । अयं

तु मश्च्चित्तो मत्परश्च ॥
 
</p>
<p>
अथेदानीं योगफलमुच्यते-
 
—</p>
<verse>
युञ्जन्नेवं सदात्मानं योगी नियतमानसः ।

शान्ति निर्वाणपरमां मत्संस्थामधिगच्छति ॥
 
<fix> १५ ॥</fix></verse>
<p>
युञ्जन् समाधानं कुर्वन् एवं यथोक्तेन विधानेन सदा

आत्मानं सर्वदा योगी नियतमानसः नियतं संयतं मानसं

मनो यस्य सोऽयं नियतमानसः, शान्तिम् उपरतिं निर्वाण-

परमां निर्वाणं मोक्षः तत् परमा निष्ठा यस्याः शान्तेः सा

निर्वाणपरमा तां निर्वाणपरमाम्, मत्संस्थां मदधीनाम् अधि-

गच्छति प्राप्नोति ॥
 
</p>
<p>
इदानीं योगिनः आहारादिनियम उच्यते
 
</p>
<verse>
नात्यश्नतस्तु
 
योगोऽस्ति न चैकान्तमनश्नतः ।
 

न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ॥ १६
 
</verse>
<ignore>
S. B. 13
 
</ignore>
</page>