Proofing

This page has not been fully proofread.

षष्ठोऽध्यायः ।
 
१८९
 
ज्ञानविज्ञानतृप्तात्मा ज्ञानं शास्त्रोक्त पदार्थानां परिज्ञानम्,
विज्ञानं तु शास्त्रतो ज्ञातानां तथैव स्वानुभवकरणम्, ताभ्यां
ज्ञानविज्ञानाभ्यां तृप्तः संजातालंप्रत्ययः आत्मा अन्तःकरणं
यस्य सः ज्ञानविज्ञानतृप्तात्मा, कूटस्थ: अप्रकम्प्यः, भवति
इत्यर्थः ; विजितेन्द्रियश्च । य ईदृशः, युक्तः समाहितः इति
स उच्यते कथ्यते । स योगी समलोष्टाश्मकाञ्चनः लोष्टा-
श्मका वनानि समानि यस्य सः समलोष्टाश्मकाञ्चनः ॥
 
किंच
 
सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
 
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ९ ॥
 
'सुहृत्' इत्यादिश्लोकार्धम् एकं पदम् । सुहृत् इति प्रत्यु -
पकारमनपेक्ष्य उपकर्ता, मित्रं स्नेहवान्, अरिः शत्रुः, उदा-
सीनः न कस्यचित् पक्षं भजते, मध्यस्थः यो विरुद्धयोः
उभयोः हितैषी, द्वेष्यः आत्मनः अप्रियः, बन्धुः संबन्धी
इत्येतेषु साधुषु शास्त्रानुवर्तिषु अपि च पापेषु प्रतिषिद्धका-
रिषु सर्वेषु एतेषु समबुद्धिः ' कः किंकर्मा' इत्यव्यापृतबुद्धि-
रित्यर्थः । विशिष्यते, 'विमुच्यते ' इति वा पाठान्तरम् । यो-
गारूढानां सर्वेषाम् अयम् उत्तम इत्यर्थः ॥