Proofing

This page has not been fully proofread.

१८८
 
श्रीमद्भगवद्गीताभाष्ये
 
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः ।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ ६ ॥
 
वन्धुः आत्मा आत्मनः तस्य तस्य आत्मनः स आत्मा
बन्धुः येन आत्मना आत्मैव जित:, आत्मा कार्यकरणसं-
घातो येन वशीकृतः, जितेन्द्रिय इत्यर्थः । अनात्मनस्तु
अजितात्मनस्तु शत्रुत्वे शत्रुभावे वर्तेत आत्मैव शत्रुवत्,
यथा अनात्मा शंत्रुः आत्मन: अपकारी, तथा आत्मा आत्मन
अपकारे वर्तेत इत्यर्थः ॥
 
जितात्मनः प्रशान्तस्य परमात्मा समाहितः ।
शीतोष्णसुखदुःखेषु तथा मानापमानयोः ॥ ७ ॥
 
जितात्मन: कार्यकरणसंघात आत्मा जितो येन सः
 
जितात्मा तस्य जितात्मनः, प्रशान्तस्य प्रसन्नान्तःकरणस्य
सतः संन्यासिनः परमात्मा समाहितः साक्षादात्मभावेन
वर्तते इत्यर्थः । किंच शीतोष्णसुखदुःखेषु तथा माने अप-
माने च मानापमानयोः पूजापरिभावयोः समः स्यात् ॥
 
ज्ञानविज्ञानतृसात्मा कूटस्थो विजितेन्द्रियः ।
युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ॥