Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
षष्ठोऽध्यायः ।
 
१८७
 
'
</ignore>
<p>&apos;
सर्वसंकल्पसंन्यासी'&apos; इति वचनात् सर्वान् कामान् सर्वा-
 

णि कर्माणि च त्याजयति भगवान् ॥
 
.
 
</p>
<p>
यदा एवं योगारूढः, तदा तेन आत्मा उद्धृतो भवति

संसारादनर्थजातात् । अतः—
 
</p>
<verse>
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ५॥
 
</verse>
<p>
उद्धरेत् संसारसागरे निमग्नम् आत्मना आत्मानं ततः

उत् ऊर्ध्वं हरेत् उद्धरेत्, योगारूढतामापादयेदित्यर्थः । न

आत्मानम् अवसादयेत् न अधः नयेत्, न अधः गमयेत् ।

आत्मैव हि यस्मात् आत्मनः बन्धुः । न हि अन्यः कश्चित् .

बन्धुः, य:यः संसारमुक्तये भवति । बन्धुरपि तावत् मोक्षं प्रति

प्रतिकूल एव, स्नेहादिबन्धनायतनत्वात् । तस्मात् युक्तमव-

धारणम् '&apos;आत्मैव ह्यात्मनो बन्धुः'&apos; इति । आत्मैव रिपुः
 

शत्रुः। यः अन्यः अपकारी बाह्यः शत्रुः
सोऽपि
शत्रुः। यः अन्यः अपकारी बाह्यः शत्रुः
आत्मप्रयुक्त

एवेति युक्तमेव अवधारणम् '&apos;आत्मैव रिपुरात्मनः'&apos; इति ॥
 
</p>
<p>
आत्मैव बन्धुः आत्मैव रिपुः आत्मनः इत्युक्तम् । तत्र

किंलक्षण आत्मा आत्मनो बन्धुः, किंलक्षणो वा आत्मा

आत्मनो रिपुः इत्युच्यते-
 
—</p>
</page>