2026-05-04 02:34:48 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>षष्ठोऽध्यायः ।
१८७
'</ignore>
<p>'सर्वसंकल्पसंन्यासी'' इति वचनात् सर्वान् कामान् सर्वा-
णि कर्माणि च त्याजयति भगवान् ॥
.
</p>
<p>यदा एवं योगारूढः, तदा तेन आत्मा उद्धृतो भवति
संसारादनर्थजातात् । अतः—
</p>
<verse>उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ५॥
</verse>
<p>उद्धरेत् संसारसागरे निमग्नम् आत्मना आत्मानं ततः
उत् ऊर्ध्वं हरेत् उद्धरेत्, योगारूढतामापादयेदित्यर्थः । न
आत्मानम् अवसादयेत् न अधः नयेत्, न अधः गमयेत् ।
आत्मैव हि यस्मात् आत्मनः बन्धुः । न हि अन्यः कश्चित् .
बन्धुः,य:यः संसारमुक्तये भवति । बन्धुरपि तावत् मोक्षं प्रति
प्रतिकूल एव, स्नेहादिबन्धनायतनत्वात् । तस्मात् युक्तमव-
धारणम्''आत्मैव ह्यात्मनो बन्धुः'' इति । आत्मैव रिपुः
शत्रुः। यः अन्यः अपकारी बाह्यः शत्रुः सोऽपि
शत्रुः। यः अन्यः अपकारी बाह्यः शत्रुः आत्मप्रयुक्त
एवेति युक्तमेव अवधारणम्''आत्मैव रिपुरात्मनः'' इति ॥
</p>
<p>आत्मैव बन्धुः आत्मैव रिपुः आत्मनः इत्युक्तम् । तत्र
किंलक्षण आत्मा आत्मनो बन्धुः, किंलक्षणो वा आत्मा
आत्मनो रिपुः इत्युच्यते-
—</p>
</page>
<ignore>षष्ठोऽध्यायः ।
'
<p>'सर्वसंकल्पसंन्यासी
णि कर्माणि च त्याजयति भगवान् ॥
.
<p>यदा एवं योगारूढः, तदा तेन आत्मा उद्धृतो भवति
संसारादनर्थजातात् । अतः—
<verse>उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ५॥
<p>उद्धरेत् संसारसागरे निमग्नम् आत्मना आत्मानं ततः
उत् ऊर्ध्वं हरेत् उद्धरेत्, योगारूढतामापादयेदित्यर्थः । न
आत्मानम् अवसादयेत् न अधः नयेत्, न अधः गमयेत् ।
आत्मैव हि यस्मात् आत्मनः बन्धुः । न हि अन्यः कश्चित्
बन्धुः,
प्रतिकूल एव, स्नेहादिबन्धनायतनत्वात् । तस्मात् युक्तमव-
धारणम्
शत्रुः। यः अन्यः अपकारी बाह्यः शत्रुः सोऽपि
शत्रुः। यः अन्यः अपकारी बाह्यः शत्रुः
एवेति युक्तमेव अवधारणम्
<p>आत्मैव बन्धुः आत्मैव रिपुः आत्मनः इत्युक्तम् । तत्र
किंलक्षण आत्मा आत्मनो बन्धुः, किंलक्षणो वा आत्मा
आत्मनो रिपुः इत्युच्यते
</page>