2026-05-03 04:20:28 by ambuda-bot
This page has not been fully proofread.
षष्ठोऽध्यायः ।
१८७
'सर्वसंकल्पसंन्यासी' इति वचनात् सर्वान् कामान् सर्वा-
णि कर्माणि च त्याजयति भगवान् ॥
.
यदा एवं योगारूढः, तदा तेन आत्मा उद्धृतो भवति
संसारादनर्थजातात् । अतः—
उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥५॥
उद्धरेत् संसारसागरे निमग्नम् आत्मना आत्मानं ततः
उत् ऊर्ध्वं हरेत् उद्धरेत्, योगारूढतामापादयेदित्यर्थः । न
आत्मानम् अवसादयेत् न अधः नयेत्, न अधः गमयेत् ।
आत्मैव हि यस्मात् आत्मनः बन्धुः । न हि अन्यः कश्चित् .
बन्धुः, य: संसारमुक्तये भवति । बन्धुरपि तावत् मोक्षं प्रति
प्रतिकूल एव, स्नेहादिबन्धनायतनत्वात् । तस्मात् युक्तमव-
धारणम् 'आत्मैव ह्यात्मनो बन्धुः' इति । आत्मैव रिपुः
सोऽपि
शत्रुः। यः अन्यः अपकारी बाह्यः शत्रुः आत्मप्रयुक्त
एवेति युक्तमेव अवधारणम् 'आत्मैव रिपुरात्मनः' इति ॥
आत्मैव बन्धुः आत्मैव रिपुः आत्मनः इत्युक्तम् । तत्र
किंलक्षण आत्मा आत्मनो बन्धुः, किंलक्षणो वा आत्मा
आत्मनो रिपुः इत्युच्यते-