Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१८६
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
अथेदानीं कदा योगारूढो भवति इत्युच्यते-
—</p>
<verse>
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते ।

सर्वसंकल्पसंन्यासी योगारूढस्तदोच्यते ॥ ४ ॥
 
</verse>
<p>
यदा समाधीयमानचित्तो योगी हि इन्द्रियार्थेषु इन्द्रि -

याणामर्थाः शब्दादयः तेषु इन्द्रियार्थेषु कर्मसु च नित्यनैमि-

त्तिककाम्यप्रतिषिद्धेषु प्रयोजनाभावबुद्धधाध्या न अनुषज्जते अनु-

षङ्गं कर्तव्यताबुद्धिं न करोतीत्यर्थः । सर्वसंकल्पसंन्यासी स-

र्वान् संकल्पान् इहामुत्रार्थकामहेतून् संन्यसितुं शीलम् अस्य

इति सर्वसंकल्पसंन्यासी, योगारूढः प्राप्तयोग इत्येतत्, तदा

तस्मिन् काले उच्यते । '&apos;सर्वसंकल्पसंन्यासी'&apos; इति वचनात्

सर्वोश्च कामान् सर्वाणि च कर्माणि संन्यस्येदित्यर्थः । संक-

ल्पमूला हि सर्वे कामा: - ' माः — <quote>&apos;संकल्पमूलः कामो वै यज्ञाः

संकल्पसंभवाः । काम जानामि ते मूलं संकल्पात्किल जा-

यसे । न त्वां संकल्पयिष्यामि तेन मे न भविष्यसि'&apos;</quote> इत्या-

दिस्मृतेः । सर्वकामपरित्यागे च सर्वकर्मसंन्यासः सिद्धो भ-

वति, '&apos;स यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म

कुरुते'&apos; इत्यादिश्रुतिभ्य: ; 'यः ; &apos;यद्यद्धि कुरुते जन्तुः तत्तत्

कामस्य चेष्टितम्'&apos; इत्यादिस्मृतिभ्यश्च ; न्यायाश्च न हि

सर्वसंकल्पसंन्यासे कश्चित् स्पन्दितुमपि शक्तः । तस्मात्
 
</p>
</page>