2026-05-04 02:37:20 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>षष्ठोऽध्यायः ।
१८५
</ignore>
<p>एवं परमार्थसंन्यासकर्मयोगयोः कर्तृद्वारकं संन्याससा -
मान्यमपेक्ष्य''यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव'
'
इति कर्मयोगस्य स्तुत्यर्थं संन्यासत्वम् उक्तम् । ध्यानयोगस्य
फलनिरपेक्षः कर्मयोगो बहिरङ्गं साधनमिति तं संन्यासत्वेन
स्तुत्वा अधुना कर्मयोगस्य ध्यानयोगसाधनत्वं दर्शयति—
</p>
<verse>आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ३॥
</verse>
<p>आरुरुक्षो:षोः आरोदुमिच्छतः, अनारूढस्य, ध्यानयोगे
अवस्थातुमशक्तस्यैवेत्यर्थः । कस्य तस्य आरुरुक्षोः ? मुनेः,
कर्मफलसंन्यासिन इत्यर्थः । किमारुरुक्षोः ? योगम् । कर्म
कारणं साधनम् उच्यते । योगारूढस्य पुनः तस्यैव शम:मः उ-
पशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढस्य साधनम्
उच्यते इत्यर्थः । यावद्यावत् कर्मभ्यः उपरमते, तावत्तावत्
निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते । तथा सति
स झटिति योगारूढो भवति । तथा चोक्तं व्यासेन-
'—
'नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च ।
शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः'
'
इति ॥
</p>
</page>
<ignore>षष्ठोऽध्यायः ।
<p>एवं परमार्थसंन्यासकर्मयोगयोः कर्तृद्वारकं संन्याससा -
मान्यमपेक्ष्य
इति कर्मयोगस्य स्तुत्यर्थं संन्यासत्वम् उक्तम् । ध्यानयोगस्य
फलनिरपेक्षः कर्मयोगो बहिरङ्गं साधनमिति तं संन्यासत्वेन
स्तुत्वा अधुना कर्मयोगस्य ध्यानयोगसाधनत्वं दर्शयति—
<verse>आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ३॥
<p>आरुरुक्
अवस्थातुमशक्तस्यैवेत्यर्थः । कस्य तस्य आरुरुक्षोः ? मुनेः,
कर्मफलसंन्यासिन इत्यर्थः । किमारुरुक्षोः ? योगम् । कर्म
कारणं साधनम् उच्यते । योगारूढस्य पुनः तस्यैव श
पशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढस्य साधनम्
उच्यते इत्यर्थः । यावद्यावत् कर्मभ्यः उपरमते, तावत्तावत्
निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते । तथा सति
स झटिति योगारूढो भवति । तथा चोक्तं व्यासेन
'
'नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च ।
शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः
इति ॥
</page>