Proofing

This page has not been fully proofread.

षष्ठोऽध्यायः ।
 
१८५
 
एवं परमार्थसंन्यासकर्मयोगयोः कर्तृद्वारकं संन्याससा -
मान्यमपेक्ष्य 'यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव'
इति कर्मयोगस्य स्तुत्यर्थं संन्यासत्वम् उक्तम् । ध्यानयोगस्य
फलनिरपेक्षः कर्मयोगो बहिरङ्गं साधनमिति तं संन्यासत्वेन
स्तुत्वा अधुना कर्मयोगस्य ध्यानयोगसाधनत्वं दर्शयति—
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते ।
योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ ३॥
 
आरुरुक्षो: आरोदुमिच्छतः, अनारूढस्य, ध्यानयोगे
अवस्थातुमशक्तस्यैवेत्यर्थः । कस्य तस्य आरुरुक्षोः ? मुनेः,
कर्मफलसंन्यासिन इत्यर्थः । किमारुरुक्षोः ? योगम् । कर्म
कारणं साधनम् उच्यते । योगारूढस्य पुनः तस्यैव शम: उ-
पशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढस्य साधनम्
उच्यते इत्यर्थः । यावद्यावत् कर्मभ्यः उपरमते, तावत्तावत्
निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते । तथा सति
स झटिति योगारूढो भवति । तथा चोक्तं व्यासेन-
'नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च ।
शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः '
 
इति ॥