Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१८२
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
श्रुतिस्मृतिपुराणेतिहासयोगशास्त्रेषु विहितं संन्यासित्वं योगि-

त्वं च प्रतिषेधति भगवान् । स्ववचनविरोधाच्च — '&apos;सर्व-

कर्माणि मनसा संन्यस्य... नैव कुर्वन्न कारयन् आस्ते '
'
&apos;
&apos;
मौनी संतुष्टो येन केनचित् अनिकेतः स्थिरमति: '
'
तिः&apos;
&apos;
विहाय कामान्यः सर्वान् पुमांश्चरति निःस्पृहः' ' &apos; &apos;सर्वारम्भप-

रित्यागी '&apos; इति च तत्र तत्र भगवता स्ववचनानि दर्शितानि ;

तैः विरुध्येत चतुर्थाश्रमप्रतिषेधः । तस्मात् मुनेः योगम्

आरुरुक्षो:षोः प्रतिपन्नगार्हस्थ्यस्य अग्निहोत्रादिकर्म फलनिरपे-

क्षम् अनुष्ठीयमानं ध्यानयोगारोहणसाधनत्वं सत्त्वशुद्धिद्वारेण

प्रतिपद्यते इति '&apos;स संन्यासी च योगी च'&apos; इति स्तूयते ॥
</p>
<verse>
श्रीभगवानुवाच-
 

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।

स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥
 
<fix> १ ॥</fix></verse>
<p merge-next="true">
अनाश्रितः न आश्रितः अनाश्रितः । किम् ? कर्मफलं

कर्मणां फलं कर्मफलं यत् तदनाश्रितः, कर्मफलतृष्णारहित

इत्यर्थः । यो हि कर्मफले तृष्णावान् सः कर्मफलमाश्रितो

भवति, अयं तु तद्विपरीतः, अतः अनाश्रितः कर्मफलम् ।

एवंभूतः सन् कार्यं कर्तव्यं नित्यं काम्यविपरीतम् अग्निहो-
 
</p>
</page>