2026-05-04 02:40:51 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>षष्ठोऽध्यायः ।
१८१
</ignore>
<p>नारभत इति चेत्, न ; ईश्वरे संन्यासस्य अधिकतरफलहे-
तुत्वोपपत्तेः ॥
</p>
<p>मोक्षायैव इति चेत्, स्वकर्मणां कृतानां ईश्वरे संन्यासो
मोक्षायैव, न फलान्तराय योगसहितः ; योगागश्च विभ्रष्टः ;
इत्यतः तं प्रति नाशाशङ्का युक्तैव इति चेत्, न ;''एकाकी
यतचित्तात्मा निराशीरपरिग्रहः ' '' 'ब्रह्मचारिव्रते स्थितः
'
इति कर्मसंन्यासविधानात् । न च अत्र ध्यानकाले स्त्रीस-
हायत्वाशङ्का, येन एकाकित्वं विधीयते । न च गृहस्थस्य
'
'निराशीरपरिग्रहः'' इत्यादिवचनम् अनुकूलम् । उभयवि-
भ्रष्टप्रश्नानुपपत्तेश्च ॥
</p>
<p merge-next="true">अनाश्रित इत्यनेन कर्मिण एव संन्यासित्वं योगित्वं च
उक्तम्, प्रतिषिद्धं च निरग्नेः अक्रियस्य च संन्यासित्वं
योगित्वं चेति चेत्, न ; ध्यानयोगं प्रति बहिरङ्गस्य सतः
कर्मण:णः फलाकाङ्क्षा संन्यासस्तुतिपरत्वात् । न केवलं निरग्निः
अक्रियः एव संन्यासी योगी च । किं तर्हि ? कर्म्यपि,
कर्मफलासङ्गं संन्यस्य कर्मयोगम् अनुतिष्ठन् सत्त्वशुद्धयर्थम्,
'
'स संन्यासी च योगी च भवति'' इति स्तूयते । न च एकेन
वाक्येन कर्मफलासङ्गसंन्यासस्तुति:तिः चतुर्थाश्रमप्रतिषेधश्च उप-
पद्यते । न च प्रसिद्धं निरग्नेः अक्रियस्य परमार्थसंन्यासिनः
</p>
</page>
<ignore>षष्ठोऽध्यायः ।
<p>नारभत इति चेत्, न ; ईश्वरे संन्यासस्य अधिकतरफलहे-
तुत्वोपपत्तेः ॥
<p>मोक्षायैव इति चेत्, स्वकर्मणां कृतानां ईश्वरे संन्यासो
मोक्षायैव, न फलान्तराय योगसहितः ; यो
इत्यतः तं प्रति नाशाशङ्का युक्तैव इति चेत्, न ;
यतचित्तात्मा निराशीरपरिग्रहः
इति कर्मसंन्यासविधानात् । न च अत्र ध्यानकाले स्त्रीस-
हायत्वाशङ्का, येन एकाकित्वं विधीयते । न च गृहस्थस्य
'
'निराशीरपरिग्रहः
भ्रष्टप्रश्नानुपपत्तेश्च ॥
<p merge-next="true">अनाश्रित इत्यनेन कर्मिण एव संन्यासित्वं योगित्वं च
उक्तम्, प्रतिषिद्धं च निरग्नेः अक्रियस्य च संन्यासित्वं
योगित्वं चेति चेत्, न ; ध्यानयोगं प्रति बहिरङ्गस्य सतः
कर्म
अक्रियः एव संन्यासी योगी च । किं तर्हि ? कर्म्यपि,
कर्मफलासङ्गं संन्यस्य कर्मयोगम् अनुतिष्ठन् सत्त्वशुद्धयर्थम्,
'
'स संन्यासी च योगी च भवति
वाक्येन कर्मफलासङ्गसंन्यासस्तु
पद्यते । न च प्रसिद्धं निरग्नेः अक्रियस्य परमार्थसंन्यासिनः
</page>