Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१८०
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
आरूढस्य च'&apos; इति शमकर्मविषयभेदेन विशेषणं विभाग-

करणं च अनर्थकं स्यात् ॥
 
</p>
<p>
तत्र आश्रमिणां कश्चित् योगमारुरुक्षुः भवति, आरूढश्च

कश्चित्, अन्ये न आरुरुक्षवः न च आरूढाः; तानपेक्ष्य
'

&apos;
आरुरुक्षो: ' ' षोः&apos; &apos;आरूढस्य च'&apos; इति विशेषणं विभागकरणं च

उपपद्यत एवेति चेत्, न; '&apos;तस्यैव'&apos; इति वचनात् पुनः

योगग्रहणाच्च '&apos;योगारूढस्य'&apos; इति ; य आसीत् पूर्वं योग-

मारुरुक्षुः, तस्यैव आरूढस्य शमः एव कर्तव्यः कारणं योग-

फलं प्रति उच्यते इति । अतो न यावज्जीवं कर्तव्यत्वप्राप्तिः

कस्यचिदपि कर्मणः । योगविभ्रष्टवचनाच्च — गृहस्थस्य चेत्

कर्मिणो योगो विहितः षष्ठे अध्याये, सः योगविभ्रष्टोऽपि

कर्मगतिं कर्मफलं प्राप्नोति इति तस्य नाशाशङ्का अनुपपन्ना

स्यात् । अवश्यं हि कृतं कर्म काम्यं नित्यं वा - मोक्षस्य

नित्यत्वात् अनारभ्यत्वे - स्वं फलं आरभत एव । नित्यस्य

च कर्मणः वेदप्रमाणावबुद्धत्वात् फलेन भवितव्यम् इति

अबोचाम, अन्यथा वेदस्य आनर्थक्यप्रसङ्गात् इति । न च

कर्मणि सति उभयविभ्रष्टवचनम्, अर्थवत् कर्मणो विभ्रंशका-

रणानुपपत्तेः ॥
 
</p>
<p merge-next="true">
कर्म कृतम् ईश्वरे संन्यस्य इत्यतः कर्तुः कर्म फलं
 
</p>
</page>