2026-05-03 04:20:23 by ambuda-bot
This page has not been fully proofread.
१७६
श्रीमद्भगवद्गीताभाष्ये
एवं समाहितचित्तेन किं विज्ञेयम् इति उच्यते-
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥
इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे संन्यासयोगो नाम
पञ्चमोऽध्यायः ॥
भोक्तारं यज्ञतपसां यज्ञानां तपसां च कर्तृरूपेण देव-
तारूपेण च, सर्वलोकमहेश्वरं सर्वेषां लोकानां महान्तम्
ईश्वरं सुहृदं सर्वभूतानां सर्वप्राणिनां प्रत्युपकारनिरपेक्षतया
उपकारिणं सर्वभूतानां हृदयेशयं सर्वकर्मफलाध्यक्षं सर्वप्र-
त्ययसाक्षिणं मां नारायणं ज्ञात्वा शान्ति सर्वसंसारोपरतिम्
ऋच्छति प्राप्नोति ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगवत्पूज्यपाद-
शिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्रीमद्भगवद्गीताभाष्ये