2026-05-04 02:44:19 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>पञ्चमोऽध्यायः ।
१७५
</ignore>
<p>ध्यानयोगं सम्यग्दर्शनस्य अन्तरङ्गं विस्तरेण वक्ष्यामि इति
तस्य सूत्रस्थानीयान् श्लोकान् उपदिशति स्म -
</p>
<verse>स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥
<fix> २७ ॥</fix></verse>
<verse>यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥
<fix> २८ ॥</fix></verse>
<p>स्पर्शान् शब्दादीन् कृत्वा बहिः बाह्यान् — श्रोत्रादिद्वारेण
अन्तः बुद्धौ प्रवेशिताः शब्दादयः विषयाः तान् अचिन्तयतः
शब्दादयो बाह्या बहिरेव कृताः भवन्ति — तान् एवं बहिः
-
कृत्वा चक्षुश्चैव अन्तरे भ्रुवो:'' कृत्वा'' इति अनुषज्यते ।
तथा प्राणापानौ नासाभ्यन्तरचारिणौ समौ कृत्वा, यतेन्द्रिय-
मनोबुद्धिः यतानि संयतानि इन्द्रियाणि मनः बुद्धिश्च यस्य सः
यतेन्द्रियमनोबुद्धिः, मननात् मुनिः संन्यासी, मोक्षपरायणः
एवं देहसंस्थानात् मोक्षपरायणः मोक्ष एव परम् अयनं परा
गतिः यस्य सः अयं मोक्षपरायणो मुनिः भवेत् । विगतेच्छा-
भयक्रोधः इच्छा च भयं च क्रोधश्च इच्छाभयक्रोधाः ते
विगताः यस्मात् सः विगतेच्छाभयक्रोधः, यः एवं वर्तते सदा
संन्यासी, मुक्त एव सः न तस्य मोक्षायान्यः कर्तव्योऽस्ति ॥
</p>
</page>
<ignore>पञ्चमोऽध्यायः ।
<p>ध्यानयोगं सम्यग्दर्शनस्य अन्तरङ्गं विस्तरेण वक्ष्यामि इति
तस्य सूत्रस्थानीयान् श्लोकान् उपदिशति स्म -
<verse>स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥
<verse>यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥
<p>स्पर्शान् शब्दादीन् कृत्वा बहिः बाह्यान् — श्रोत्रादिद्वारेण
अन्तः बुद्धौ प्रवेशिताः शब्दादयः विषयाः तान् अचिन्तयतः
शब्दादयो बाह्या बहिरेव कृताः भवन्ति — तान् एवं बहिः
-
कृत्वा चक्षुश्चैव अन्तरे भ्रुवो: