2026-05-03 04:20:23 by ambuda-bot
This page has not been fully proofread.
पञ्चमोऽध्यायः ।
१७५
ध्यानयोगं सम्यग्दर्शनस्य अन्तरङ्गं विस्तरेण वक्ष्यामि इति
तस्य सूत्रस्थानीयान् श्लोकान् उपदिशति स्म -
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥
स्पर्शान् शब्दादीन् कृत्वा बहिः बाह्यान् — श्रोत्रादिद्वारेण
अन्तः बुद्धौ प्रवेशिताः शब्दादयः विषयाः तान् अचिन्तयतः
शब्दादयो बाह्या बहिरेव कृताः भवन्ति — तान् एवं बहिः
-
कृत्वा चक्षुश्चैव अन्तरे भ्रुवो: ' कृत्वा' इति अनुषज्यते ।
तथा प्राणापानौ नासाभ्यन्तरचारिणौ समौ कृत्वा, यतेन्द्रिय-
मनोबुद्धिः यतानि संयतानि इन्द्रियाणि मनः बुद्धिश्च यस्य सः
यतेन्द्रियमनोबुद्धिः, मननात् मुनिः संन्यासी, मोक्षपरायणः
एवं देहसंस्थानात् मोक्षपरायणः मोक्ष एव परम् अयनं परा
गतिः यस्य सः अयं मोक्षपरायणो मुनिः भवेत् । विगतेच्छा-
भयक्रोधः इच्छा च भयं च क्रोधश्च इच्छाभयक्रोधाः ते
विगताः यस्मात् सः विगतेच्छाभयक्रोधः, यः एवं वर्तते सदा
संन्यासी, मुक्त एव सः न तस्य मोक्षायान्यः कर्तव्योऽस्ति ॥