2026-05-04 04:18:57 by akprasad
This page has been fully proofread once and needs a second look.
<ignore>पञ्चमोऽध्यायः ।
<p>ननु अभोज्यान्नाः ते दोषवन्तः,
समे पूजा
-
<verse>इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः ।
निर्दोषं हि समं ब्रह्म तस्माद्ब्रह्मणि ते स्थिताः ॥
<p>इह एव जीवद्भिरेव तैः समदर्शिभिः पण्डितैः जित: व-
शीकृतः सर्गः जन्म, येषां साम्ये सर्वभूतेषु ब्रह्मणि समभावे
स्थितं निश्चलीभूतं मनः अन्तःकरणम् । निर्दोषं यद्यपि
दोषवत्सु श्वपाकादिषु मूढैः तद्दोषैः दोषवत् इव विभाव्यते,
तथापि तद्दोषैः अस्पृष्टम् इति निर्दोषं दोषवर्जितं हि यस्मात् ;
नापि स्वगुणभेदभिन्नम्, निर्गुणत्वात् चैतन्यस्य । वक्ष्यति
च भगवान् इच्छादीनां क्षेत्रधर्मत्वम्,
त्वात्
सन्ति, प्रतिशरीरं तेषां सत्त्ववे प्रमाणानुपपत्तेः । अतः समं
ब्रह्म एकं च । तस्मात् ब्रह्मणि एव ते स्थिताः । तस्मात् न
दोषगन्धमात्रमपि तान् स्पृशति, देहादिसंघातात्मदर्शनाभि-
मानाभावात् तेषाम् । देहादिसंघातात्मदर्शनाभिमानवद्विषयं
तु तत् सूत्रम्
जाविषयत्वेन विशेषणात् । दृश्यते हि ब्रह्मवित् षडङ्गवित्
चतुर्वेदवित् इति पूजादानादौ गुणविशेषसंबन्धः कारणम् ।
</page>