Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१६८
 
1
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
परम् अयनं परा गतिः येषां भवति ते तत्परायणाः केव-

लात्मरतय इत्यर्थः । येषां ज्ञानेन नाशितम् आत्मनः अज्ञानं ते

गच्छन्ति एवंविधाः अपुनरावृत्तिम् अपुनर्देहसंबन्धं ज्ञाननिर्धू-

तकल्मषाः यथोक्तेन ज्ञानेन निर्धूतः नाशितः कल्मषः पापादि-

संसारकारणदोषः येषां ते ज्ञाननिर्धूतकल्मषाः यतयः इत्यर्थः ॥
 
</p>
<p>
येषां ज्ञानेन नाशितम् आत्मनः अज्ञानं ते पण्डिताः कथं

तत्त्वं पश्यन्ति इत्युच्यते-
 
--</p>
<verse>
विद्याविनयसंपन्ने ब्राह्मणे गवि हस्तिनि ।

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥
 
<fix> १८ ॥</fix></verse>
<p>
विद्याविनयसंपन्ने विद्या च विनयश्च विद्याविनयौ, विनयः

उपशमः, ताभ्यां विद्याविनयाभ्यां संपन्नः विद्याविनयसंपन्नः

विद्वान् विनीतश्च यो ब्राह्मणः तस्मिन् ब्राह्मणे गवि हस्तिनि

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः । विद्याविनयसं-

पन्ने उत्तमसंस्कारवति ब्राह्मणे सात्विके, मध्यमायां च

राजस्यां गवि, संस्कारहीनायाम् अत्यन्तमेव केवलतामसे

हस्त्यादौ च सत्त्वादिगुणैः तज्जैश्च संस्कारैः तथा राजसैः

तथा तामसैश्च संस्कारैः अत्यन्तमेव अस्पृष्टं समम् एकम्

अविक्रियं तत् ब्रह्म द्रष्टुं शीलं येषां ते पण्डिताः समदर्शिनः ॥
 
</p>
</page>