2026-05-03 04:20:20 by ambuda-bot
This page has not been fully proofread.
पञ्चमोऽध्यायः ।
१६७
पूजादिलक्षणं यागदानहोमादिकं च सुकृतं प्रयुज्यते इत्याह-
अज्ञानेन आवृतं ज्ञानं विवेकविज्ञानम्, तेन मुह्यन्ति
'करोमि कारयामि भोक्ष्ये भोजयामि' इत्येवं मोहं गच्छन्ति
अविवेकिनः संसारिणो जन्तवः ॥
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः ।
तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ॥ १६॥
ज्ञानेन तु येन अज्ञानेन आवृता: मुह्यन्ति जन्तवः तत्
अज्ञानं येषां जन्तूनां विवेकज्ञानेन आत्मविषयेण नाशितम्
आत्मनः भवति, तेषां जन्तूनाम् आदित्यवत् यथा आदित्यः
समस्तं रूपजातम् अवभासयति तद्वत् ज्ञानं ज्ञेयं वस्तु सर्वे
प्रकाशयति तत् परं परमार्थतत्त्वम् ॥
यत् परं ज्ञानं प्रकाशितम्-
तडुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः ।
गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ १७ ॥
तस्मिन् ब्रह्मणि गता बुद्धिः येषां ते तद्बुद्धयः, तदा-
त्मानः तदेव परं ब्रह्म आत्मा येषां ते तदात्मानः, तन्निष्ठाः
निष्ठा अभिनिवेश: तात्पर्य सर्वाणि कर्माणि संन्यस्य तस्मिन्
ब्रह्मण्येव अवस्थानं येषां ते तन्निष्ठाः, तत्परायणाश्च तदेव