Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
१६४
 
श्रीमद्भगवद्गीताभाष्ये
 
</ignore>
<p>
कारः कामकारः तेन कामकारेण, कामप्रेरिततयेत्यर्थः, 'मम
&apos;मम
फलाय इदं करोमि कर्म'&apos; इत्येवं फले सक्तः निबध्यते ।

अतः त्वं युक्तो भव इत्यर्थः ॥
 
</p>
<p>
यस्तु परमार्थदर्शी सः—
 
</p>
<verse>
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।

नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥ १३ ॥
 
</verse>
<p>
सर्वाणि कर्माणि सर्वकर्माणि संन्यस्य परित्यज्य नित्यं

नैमित्तिकं काम्यं प्रतिषिद्धं च तानि सर्वाणि कर्माणि मनसा

विवेकबुद्धधा, कर्मादौ अकर्मसंदर्शनेन संत्यज्येत्यर्थः, आस्ते

तिष्ठति सुखम् । त्यक्तवाङ्मन: कायचेष्टः निरायासः प्रसन्न-

चित्तः आत्मनः अन्यत्र निवृत्त सर्वबाह्यप्रयोजनः इति
'

&apos;
सुखम् आस्ते'&apos; इत्युच्यते । वशी जितेन्द्रिय इत्यर्थः ।
क्व
कथम् आस्ते इति, आह- नवद्वारे पुरे । सप्त शीर्षण्यानि

आत्मन उपलब्धिद्वाराणि, अवाक् द्वे मूत्रपुरीषविसर्गार्थे, तैः

द्वारैः नवद्वारं पुरम् उच्यते शरीरम्, पुरमिव पुरम्, आत्मैक-

स्वामिकम्, तदर्थप्रयोजनैश्च इन्द्रियमनोबुद्धिविषयैः अनेक-

फलविज्ञानस्य उत्पादकैः पौरैरिव अधिष्ठितम् । तस्मिन्ं

नवद्वारे पुरे देही सर्वे कर्म संन्यस्य आस्ते ; किं विशेषणेन ?

सर्वो हि देही संन्यासी असंन्यासी वा देहे एव आस्ते;
 
</p>
</page>