Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
पञ्चमोऽध्यायः ।
 
१६३
 
</ignore>
<verse>
कायेन मनसा वुद्धया केवलैरिन्द्रियैरपि ।

योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥
 
<fix> ११ ॥</fix></verse>
<p>
कायेन देहेन मनसा बुद्धया च केवलैः ममत्ववर्जितैः
'

&apos;
ईश्वरायैव कर्म करोमि, न मम फलाय'&apos; इति ममत्वबुद्धिशू-

न्यैः इन्द्रियैरपि - केवलशब्द: कायादिभिरपि प्रत्येकं संब-

ध्यते— सर्वव्यापारेषु ममतावर्जनाय । योगिनः कर्मिणः कर्म

कुर्वन्ति सङ्गं त्यक्त्वा फलविषयम् आत्मशुद्धये सत्त्वशुद्धये

इत्यर्थः । तस्मात् तन्त्रैव तव अधिकारः इति कुरु कर्मैव ॥
 
</p>
<p>
यस्माच्च-
 
--</p>
<verse>
युक्तः कर्मफलं त्यक्त्वा

शान्तिमाप्नोति नैष्ठिकीम् ।
 

अयुक्तः कामकारेण
 

फले सक्तो निबध्यते ॥ १२ ॥
 
</verse>
<p>
युक्तः '&apos;ईश्वराय कर्माणि करोमि न मम फलाय '&apos; इत्येवं

समाहितः सन् कर्मफलं त्यक्त्वा परित्यज्य शान्ति मोक्षा-

ख्याम् आप्नोति नैष्ठिकों निष्ठायां भवां सत्त्वशुद्धिज्ञानप्राप्ति-

सर्वकर्मसंन्यासज्ञाननिष्ठाक्रमेणेति वाक्यशेषः । यस्तु पुनः

अयुक्तः असमाहितः कामकारेण करणं कारः कामस्य
 
</p>
</page>