Proofing

This page has not been fully proofread.

पञ्चमोऽध्यायः ।.
 
१६१
 
यदा पुनः अयं सम्यग्ज्ञानप्राप्त्युपायत्वेन-
 
योगयुक्तो विशुद्धात्मा
 
विजितात्मा जितेन्द्रियः ।
 
सर्वभूतात्मभूतात्मा
 
कुर्वन्नपि न लिप्यते ॥ ७ ॥
 
योगेन युक्तः योगयुक्तः, विशुद्धात्मा विशुद्धसत्त्वः,
विजितात्मा विजितदेहः, जितेन्द्रियश्च सर्वभूतात्मभूतात्मा
सर्वेषां ब्रह्मादीनां स्तम्बपर्यन्तानां भूतानाम् आत्मभूतः आत्मा
प्रत्यक्चेतनो यस्य सः सर्वभूतात्मभूतात्मा सम्यग्दर्शीत्यर्थः,
स तत्रैवं वर्तमानः लोकसंग्रहाय कर्म कुर्वन्नपि न लिप्यते
न कर्मभिः बध्यते इत्यर्थः ॥
 
न च असौ परमार्थतः करोतीत्यतः—
 
नैव किंचित्करोमीति
 
युक्तो मन्येत तत्त्ववित् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्र-
 
न्नश्नन्गच्छन्स्वपञ्श्वसन् ॥ ८ ॥
 
प्रलपन् विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥ ९ ॥
 
S. B. 11