2026-05-04 04:33:32 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१६०
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<p>एवं तर्हि योगात् संन्यास एव विशिष्यते ; कथं तर्हि
इदमुक्तम्' 'तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते '
'
इति ? शृणु तत्र कारणम् — त्वया पृष्टं केवलं कर्मसंन्यासं
कर्मयोगं च अभिप्रेत्य तयोः अन्यतरः कः श्रेयान् इति ।
तदनुरूपं प्रतिवचनं मया उक्तं कर्मसंन्यासात् कर्मयोगः
विशिष्यते इति ज्ञानम् अनपेक्ष्य । ज्ञानापेक्षस्तु संन्यासः
सांख्यमिति मया अभिप्रेतः । परमार्थयोगश्च स एव ।
यस्तु कर्मयोगः वैदिकः स च तादर्थ्यात् योग:गः संन्यास
इति च उपचर्यते । कथं तादर्थ्यम् इति उच्यते--
-</p>
<verse>संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ ६ ॥
</verse>
<p>संन्यासस्तु पारमार्थिकः हे महाबाहो दुःखम् आप्तुं
प्राप्तम् अयोगतः योगेन विना । योगयुक्तः वैदिकेन कर्म-
योगेन ईश्वरसमर्पितरूपेण फलनिरपेक्षेण युक्तः, मुनिः
मननात् ईश्वरस्वरूपस्य मुनिः, ब्रह्म — परमात्मज्ञाननिष्ठा-
लक्षणत्वात् प्रकृतः संन्यासः ब्रह्म उच्यते,''न्यास इति
ब्रह्मा ब्रह्मा हि पर:'' इति श्रुतेः — ब्रह्म परमार्थसंन्यासं
परमार्थज्ञाननिष्ठा लक्षणं नचिरेण क्षिप्रमेव अधिगच्छति
प्राप्नोति । अतः मया उक्तम्' 'कर्मयोगो विशिष्यते'' इति ॥
</p>
</page>
<ignore>१६०
<p>एवं तर्हि योगात् संन्यास एव विशिष्यते ; कथं तर्हि
इदमुक्तम्
इति ? शृणु तत्र कारणम् — त्वया पृष्टं केवलं कर्मसंन्यासं
कर्मयोगं च अभिप्रेत्य तयोः अन्यतरः कः श्रेयान् इति ।
तदनुरूपं प्रतिवचनं मया उक्तं कर्मसंन्यासात् कर्मयोगः
विशिष्यते इति ज्ञानम् अनपेक्ष्य । ज्ञानापेक्षस्तु संन्यासः
सांख्यमिति मया अभिप्रेतः । परमार्थयोगश्च स एव ।
यस्तु कर्मयोगः वैदिकः स च तादर्थ्यात् यो
इति च उपचर्यते । कथं तादर्थ्यम् इति उच्यते--
<verse>संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥ ६ ॥
<p>संन्यासस्तु पारमार्थिकः हे महाबाहो दुःखम् आप्तुं
प्राप्तम् अयोगतः योगेन विना । योगयुक्तः वैदिकेन कर्म-
योगेन ईश्वरसमर्पितरूपेण फलनिरपेक्षेण युक्तः, मुनिः
मननात् ईश्वरस्वरूपस्य मुनिः, ब्रह्म — परमात्मज्ञाननिष्ठा-
लक्षणत्वात् प्रकृतः संन्यासः ब्रह्म उच्यते,
ब्रह्मा ब्रह्मा हि पर:
परमार्थज्ञाननिष्ठा
प्राप्नोति । अतः मया उक्तम्
</page>