Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
पञ्चमोऽध्यायः ।
 
१५९
 
</ignore>
<p>
ननु संन्यासकर्मयोगशब्देन प्रस्तुत्य सांख्ययोगयोः

फलैकत्वं कथम् इह अप्रकृतं ब्रवीति ? नैष दोषः --- यद्यपि

अर्जुनेन संन्यासं कर्मयोगं च केवलम् अभिप्रेत्य प्रश्नः कृतः,

भगवांस्तु तदपरित्यागेनैव स्वाभिप्रेतं च विशेषं संयोज्य

शब्दान्तरवाच्यतया प्रतिवचनं ददौ '&apos;सांख्ययोगौ'&apos; इति ।

तौ एव संन्यासकर्मयोगौ ज्ञानतदुपायसमबुद्धित्वादिसंयुक्तौ

सांख्ययोगशब्दवाच्यौ इति भगवतो मतम् । अतः न अप्र-

कृतप्रक्रियेति ॥
 
</p>
<p>
एकस्यापि सम्यगनुष्ठानात् कथम् उभयोः फलं विन्दते

इति उच्यते—
 
</p>
<verse>
यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।

एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥
 
<fix> ५ ॥</fix></verse>
<p>
यत् सांख्यैः ज्ञाननिष्ठैः संन्यासिभिः प्राप्यते स्थानं

मोक्षाख्यम्, तत् योगैरपि ज्ञानप्राप्त्युपायत्वेन ईश्वरे सम
र्प्य
कर्माणि आत्मनः फलम् अनभिसंधाय अनुतिष्ठन्ति ये ते

योगाः योगिनः तैरपि परमार्थज्ञानसंन्यासप्राप्तिद्वारेण गम्यते

इत्यभिप्रायः । अतः एकं सांख्यं च योगं च यः पश्यति

फलैकत्वात् स पश्यति सम्यक् पश्यतीत्यर्थः ॥
 
</p>
</page>