Proofing

This page has been fully proofread once and needs a second look.

<page>
<heading>
पञ्चमोऽध्यायः ॥
 
</heading>
<p merge-next="true"><quote>&apos;
कर्मण्यकर्म यः पश्येत्'&apos;</quote> इत्यारभ्य 'सं
 
<quote>&apos;स
युक्तः कृत्स्नकर्मकृत्' '&apos;</quote> <quote>&apos;ज्ञानाग्निदग्ध-

कर्माणम्' '&apos;</quote> <quote>&apos; शारीरं केवलं कर्म कुर्वन् '
 
'
&apos;</quote>
<quote>&apos;
यदृच्छालाभसंतुष्टः ' '&apos;</quote> <quote>&apos; ब्रह्मार्पणं ब्रह्म

हविः ' ' &apos;</quote> <quote>&apos;कर्मजान् विद्धि तान् सर्वान् '
 
'
&apos;</quote>
<quote>&apos;
सर्व कर्माखिलं पार्थ' '&apos;</quote> <quote>&apos;ज्ञानाग्निः
 

सर्वकर्माणि' '&apos;</quote> <quote>&apos;योगसंन्यस्तकर्माणम्'&apos;</quote> इत्येतैः वचनैः सर्वक-

र्मसंन्यासम् अवोचत् भगवान् । '<quote>&apos;छित्त्वैनं संशयं योगमा-

तिष्ठ'&apos;</quote> इत्यनेन वचनेन योगं च कर्मानुष्ठानलक्षणम् अनु-

तिष्ठ इत्युक्तवान् । तयोरुभयोश्च कर्मानुष्ठानकर्मसंन्यासयोः

स्थितिगतिवत् परस्परविरोधात् एकेन सह कर्तुमशक्यत्वात्,

कालभेदेन च अनुष्ठानविधानाभावात्, अर्थात् एतयोः अन्य-

तरकर्तव्यताप्राप्तौ सत्यां यत् प्रशस्यतरम् एतयोः कर्मानुष्ठा-

नकर्मसंन्यासयोः तत् कर्तव्यं न इतरत् इत्येवं मन्यमानः
 
</p>
</page>