Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
चतुर्थोऽध्यायः ।
 
१४७
 
</ignore>
<p>
योगसंन्यस्तकर्माणम् । कथं योगसंन्यस्तकर्मेत्याह-- ज्ञान-

संछिन्नसंशयं ज्ञानेन आत्मेश्वरैकत्वदर्शनलक्षणेन संछिन्नः

संशयो यस्य सः ज्ञानसंछिन्नसंशयः । य एवं योगसंन्यस्त-

कर्मा तम् आत्मवन्तम् अप्रमत्तं गुणचेष्टारूपेण दृष्टानि

कर्माणि न निध्नन्ति अनिष्टादिरूपं फलं नारभन्ते हे

धनंजय ॥
 
</p>
<p>
यस्मात् कर्मयोगानुष्ठानात् अशुद्धिक्षयहेतुकज्ञानसंछि-

नसंशयः न निबध्यते कर्मभिः ज्ञानाग्निदग्धकर्मत्वादेव,

यस्माच्च ज्ञानकर्मानुष्ठानविषये संशयवान् विनश्यति—
</p>
<verse>
तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः ।

छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥
<fix> ४२ ॥</fix></verse>
<p>
इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां

भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां

योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम

चतुर्थोऽध्यायः ॥
 
</p>
<p>
तस्मात् पापिष्ठम् अज्ञानसंभूतम् अज्ञानात् अविवेकात्

जातं हृत्स्थं हृदि बुद्धौ स्थितं ज्ञानासिना शोकमोहादिदोष-

हरं सम्यग्दर्शनं ज्ञानं तदेव असि:सिः खङ्गः तेन ज्ञानासिना
 
</p>
</page>