Proofing

This page has not been fully proofread.

चतुर्थोऽध्यायः ।
 
१४७
 
योगसंन्यस्तकर्माणम् । कथं योगसंन्यस्तकर्मेत्याह-- ज्ञान-
संछिन्नसंशयं ज्ञानेन आत्मेश्वरैकत्वदर्शनलक्षणेन संछिन्नः
संशयो यस्य सः ज्ञानसंछिन्नसंशयः । य एवं योगसंन्यस्त-
कर्मा तम् आत्मवन्तम् अप्रमत्तं गुणचेष्टारूपेण दृष्टानि
कर्माणि न निवध्नन्ति अनिष्टादिरूपं फलं नारभन्ते हे
धनंजय ॥
 
यस्मात् कर्मयोगानुष्ठानात् अशुद्धिक्षयहेतुकज्ञानसंछि-
नसंशयः न निबध्यते कर्मभिः ज्ञानाग्निदग्धकर्मत्वादेव,
यस्माच्च ज्ञानकर्मानुष्ठानविषये संशयवान् विनश्यति—
तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥
इति श्रीमहाभारते शतसाहस्रयां संहितायां वैयासिक्यां
भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां
योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम
चतुर्थोऽध्यायः ॥
 
तस्मात् पापिष्ठम् अज्ञानसंभूतम् अज्ञानात् अविवेकात्
जातं हृत्स्थं हृदि बुद्धौ स्थितं ज्ञानासिना शोकमोहादिदोष-
हरं सम्यग्दर्शनं ज्ञानं तदेव असि: खङ्गः तेन ज्ञानासिना