2026-05-03 04:20:13 by ambuda-bot
This page has not been fully proofread.
१४६
श्रीमद्भगवद्गीताभाष्ये
अचिरेण क्षिप्रमेव अधिगच्छति । सम्यग्दर्शनात् क्षिप्रमेव
मोक्षो भवतीति सर्वशास्त्रन्यायप्रसिद्धः सुनिश्चितः अर्थः ॥
अत्र संशयः न कर्तव्यः, पापिष्ठो हि संशय: ; कथम्
इति उच्यते—
अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति ।
नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ॥
अज्ञश्च अनात्मज्ञश्च अश्रद्दधानश्च गुरुवाक्यशास्त्रेषु अ-
विश्वासवांश्च संशयात्मा च संशयचित्तश्च विनश्यति । अज्ञा-
श्रद्दधानौ यद्यपि विनश्यतः, न तथा यथा संशयात्मा ।
संशयात्मा तु पापिष्ठः सर्वेषाम् । कथम् ? नायं साधारणोs-
पि लोकोऽस्ति । तथा न परः लोकः । न सुखम्, तत्रापि
संशयोत्पत्तेः संशयात्मनः संशयचित्तस्य । तस्मात् संशयो
न कर्तव्यः ॥
कस्मात् ?-
-
योगसंन्यस्तकर्माणं ज्ञानसंछिन्नसंशयम् ।
आत्मवन्तं न कर्माणि निबंध्नन्ति धनंजय ॥४१॥
योगसंन्यस्तकर्माणं परमार्थदर्शनलक्षणेन योगेन संन्य-
स्तानि कर्माणि येन परमार्थदर्शिना धर्माधर्माख्यानि तं