2026-05-04 05:27:28 by akprasad
This page has been fully proofread once and needs a second look.
<page>
<ignore>१४२
श्रीमद्भगवद्गीताभाष्ये
</ignore>
<verse>श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप ।
सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३॥
</verse>
<p>श्रेयान् द्रव्यमयात् द्रव्यसाधनसाध्यात् यज्ञात् ज्ञानयज्ञः
हे परंतप । द्रव्यमयो हि यज्ञः फलस्यारम्भकः, ज्ञानयज्ञः न
फलारम्भकः, अतः श्रेयान् प्रशस्यतरः । कथम् ? यतः सर्वं
कर्म समस्तम् अखिलम् अप्रतिबद्धं पार्थ ज्ञाने मोक्षसाधने
सर्वतः संप्लुतोदकस्थानीये परिसमाप्यते अन्तर्भवतीत्यर्थः
'यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्व तदभि-
समेति यत् किंचित्प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद'
इति श्रुतेः ॥
</p>
<p>तदेतत् विशिष्टं ज्ञानं तर्हि केन प्राप्यते इत्युच्यते—
</p>
<verse>तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ३४॥
</verse>
<p merge-next="true">तत् विद्धि विजानीहि येन विधिना प्राप्यते इति । आ-
चार्यान् अभिगम्य, प्रणिपातेन प्रकर्षेण नीचैः पतनं प्रणिपातः
दीर्घनमस्कारः तेन, 'कथंवबन्धः ? कथं मोक्षः? का विद्या ? का
चाविद्या?' इति परिप्रश्नेन, सेवया गुरुशुश्रूषया एवमादिना ।
प्रश्रयेण आवर्जिता आचार्या उपदेक्ष्यन्ति कथयिष्यन्ति ते
</p>
</page>
<ignore>१४२
<verse>श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप ।
सर्व कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥ ३३॥
<p>श्रेयान् द्रव्यमयात् द्रव्यसाधनसाध्यात् यज्ञात् ज्ञानयज्ञः
हे परंतप । द्रव्यमयो हि यज्ञः फलस्यारम्भकः, ज्ञानयज्ञः न
फलारम्भकः, अतः श्रेयान् प्रशस्यतरः । कथम् ? यतः सर्वं
कर्म समस्तम् अखिलम् अप्रतिबद्धं पार्थ ज्ञाने मोक्षसाधने
सर्वतः संप्लुतोदकस्थानीये परिसमाप्यते अन्तर्भवतीत्यर्थः
'यथा कृताय विजितायाधरेयाः संयन्त्येवमेनं सर्व तदभि-
समेति यत् किंचित्प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद'
इति श्रुतेः ॥
<p>तदेतत् विशिष्टं ज्ञानं तर्हि केन प्राप्यते इत्युच्यते—
<verse>तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥ ३४॥
<p merge-next="true">तत् विद्धि विजानीहि येन विधिना प्राप्यते इति । आ-
चार्यान् अभिगम्य, प्रणिपातेन प्रकर्षेण नीचैः पतनं प्रणिपातः
दीर्घनमस्कारः तेन, 'कथं