Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
चतुर्थोऽध्यायः ।
 
१४१
 
</ignore>
<p>
धिचोदितम् अन्नम् अमृताख्यं भुञ्जते इति यज्ञशिष्टामृतभुजः

यान्ति गच्छन्ति ब्रह्म सनातनं चिरन्तनं मुमुक्षवश्चेत्;

कालातिक्रमापेक्षया इति सामर्थ्यात् गम्यते । न अयं लोक:
कः
सर्वप्राणिसाधारणोऽपि अस्ति यथोक्तानां यज्ञानां एकोऽपि
यज्ञ:

यज्ञः
यस्य नास्ति सः अयज्ञ:ञः तस्य । कुतः अन्यो विशिष्टसा -

धनसाध्यः कुरुसत्तम ॥
 
</p>
<verse>
एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ।

कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥
 
·
<fix> ३२ ॥</fix></verse>
<p>
एवं यथोक्ता बहुविधा बहुप्रकारा यज्ञाः वितताः वि-

स्तीर्णाः ब्रह्मणो वेदस्य मुखे द्वारे वेदद्वारेण अवगम्यमानाः

ब्रह्मणो मुखे वितता उच्यन्ते ; तद्यथा ' &apos;वाचि हि प्राणं

जुहुम:'&apos; इत्यादय:यः । कर्मजान् कायिकवाचिकमानसकर्मोद्भ-

वान् विद्धि तान् सर्वान् अनात्मजान् निर्व्यापारो हि

आत्मा । अत एवं ज्ञात्वा विमोक्ष्यसे अशुभात् । न मद्व्या-

पारा इमे, निर्व्यापारोऽहम् उदासीन इत्येवं ज्ञात्वा अस्मात्

सम्यग्दर्शनात् मोक्ष्यसे संसारबन्धनात् इत्यर्थः ॥
 
'
</p>
<p>&apos;
ब्रह्मार्पणम्'&apos; इत्यादिश्लोकेन सम्यग्दर्शनस्य यज्ञत्वं सं-

पादितम् । यज्ञाश्च अनेके उपदिष्टाः । तैः सिद्धपुरुषार्थप्रयो-

जनैः ज्ञानं स्तूयते । कथम् ? —
 
</p>
</page>