2026-05-03 04:20:10 by ambuda-bot
This page has not been fully proofread.
१३८
श्रीमद्भगवद्गीताभाष्ये
श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति ।
शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ॥
श्रोत्रादीनि इन्द्रियाणि अन्ये योगिनः संयमानिषु ।
प्रतीन्द्रियं संयमों भिद्यते इति बहुवचनम् । संयमा एव
अग्नयः तेषु जुह्वति इन्द्रियसंयममेव कुर्वन्ति इत्यर्थः । शब्दा-
दीन् विषयान् अन्ये इन्द्रियाग्निषु इन्द्रियाण्येव अग्नयः तेषु
इन्द्रियाग्निषु जुह्वति श्रोत्रादिभिरविरुद्धविषयग्रहणं होमं
मन्यन्ते ॥
किंच—
सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे ।
आत्मसंयमयोगाग्नौ जुहुति ज्ञानदीपिते ॥ २७ ॥
सर्वाणि इन्द्रियकर्माणि इन्द्रियाणां कर्माणि इन्द्रिय-
कर्माणि, तथा प्राणकर्माणि प्राणो वायुः आध्यात्मिकः
तत्कर्माणि आकुञ्चनप्रसारणादीनि तानि च अपरे आत्म-
संयमयोगाग्नौ आत्मनि संयमः आत्मसंयमः स एव यो-
गाग्निः तस्मिन् आत्मसंयमयोगानौ जुह्वति प्रक्षिपन्ति ज्ञान-
दीपिते स्नेहेनेव प्रदीपे विवेकविज्ञानेन उज्ज्वलभावम् आपा-
दिते जुह्वति प्रविलापयन्ति इत्यर्थः ॥