Proofing

This page has been fully proofread once and needs a second look.

<page>
<ignore>
चतुर्थोऽध्यायः ।
 
१३७</ignore>
<verse>
दैवमेवापरे यज्ञं योगिनः पर्युपासते ।

ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥ २५ ॥
 
१३७
 
</verse>
<p>
दैवमेव देवा इज्यन्ते येन यज्ञेन असौ दैवो यज्ञः तमेव

अपरे यज्ञं योगिनः कर्मिणः पर्युपासते कुर्वन्तीत्यर्थः । ब्रह्माग्नौ

'सत्यं ज्ञानमनन्तं ब्रह्म' ' विज्ञानमानन्दं ब्रह्म' 'यत् सा-

क्षादपरोक्षात् ब्रह्म य आत्मा सर्वान्तर:' इत्यादिवचनोक्तम्

अशनायादिसर्वसंसारधर्मवर्जितम् 'नेति नेति' इति निरस्ता -

शेषविशेषं ब्रह्मशब्देन उच्यते । ब्रह्म च तत् अग्निश्च सः

होमाधिकरणत्वविवक्षया ब्रह्माभिःग्निः । तस्मिन् ब्रह्माग्नौ अपरे

अन्ये ब्रह्मविदः यज्ञम् — यज्ञशब्दवाच्य आत्मा, आत्म-

नामसु यज्ञशब्दस्य पाठात् — तम् आत्मानं यज्ञं परमार्थतः

परमेव ब्रह्म सन्तं बुद्धधाध्याद्युपाधिसंयुक्तम् अध्यस्तसर्वोपाधि-

धर्मकम् आहुतिरूपं यज्ञेनैव आत्मनैव उक्तलक्षणेन उपजुह्वति

प्रक्षिपन्ति, सोपाधिकस्य आत्मनः निरुपाधिकेन परब्रह्म-

स्वरूपेणैव यद्दर्शनं स तस्मिन् होमः तं कुर्वन्ति ब्रह्मात्मैक-

त्वदर्शननिष्ठाः संन्यासिनः इत्यर्थः ॥
 
-
 
</p>
<p>
सोऽयं सम्यग्दर्शनलक्षण:णाः यज्ञः दैवयज्ञादिषु यज्ञेषु उप-

क्षिप्यते ' ब्रह्मार्पणम्' इत्यादिश्लोकैः प्रस्तुतः 'श्रेयान् द्रव्य-

मयाद्यज्ञात् ज्ञानयज्ञः परंतप' इत्यादिना स्तुत्यर्थम् —
 
</p>
</page>